भद्रं प्रशान्तं कमनीयगात्रं, सुशोभिनेत्रं च प्रसन्नवक्त्रम् । दीनैकमित्रं करुणैकपात्रं, नारायणं तं गुरुमानतोऽस्मि ॥१॥
नारायणेत्याभिधधारकं च। नाम्नैव कैवल्यविधारकं च । वर्णेन गौरं करणेन गौरं, नारायणं तं गुरुमानतोऽस्मि ॥२॥
यस्यावलोकात्सुखिनो भवन्ति, सर्वेऽपि लोकाः प्रणताः स्वयं ये । त एव गच्छन्ति निजस्वरूपं, नारायणं तं गुरुमानतोऽस्मि ॥३॥
यत्सत्यया सत्यमिदं विभाति, यत्संविदा चेतति विश्वमेतत् । यस्य प्रमोदात्सुखवद्विभाति, नारायणं तं गुरुमानतोऽस्मि ॥४
